|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
आश्रमवासिकपर्व - अध्याय 010
॥ श्रीः ॥
16.10. अध्यायः 010
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण पौरान्प्रति दुर्योधनपक्षपातेन स्वकृतापनयक्षमापनम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
धृतराष्ट्र उवाच।
शान्तनुः पालयामास यथावद्वसुधामिमाम्।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः।
पालयामास नस्तातो विदितं वो न संशयः॥ 16-10-1(97496)
यथा च पाण्डुर्भाता मे दयितो भवतामभूत्।
स चापि पालयामास यथावत्तच्च वेत्थ ह॥ 16-10-2(97497)
`अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः।
नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम॥' 16-10-3(97498)
मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः॥ 16-10-4(97499)
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम्।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्॥ 16-10-5(97500)
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्।
विमर्दः सुमहानासीदनयात्स्वकृतादथ।
`घातिताः कौरवेयाश्च पृथिवी च विनाशिता॥' 16-10-6(97501)
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम्।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः॥ 16-10-7(97502)
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ॥ 16-10-8(97503)
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया॥ 16-10-9(97504)
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा।
अनुजानीत भद्रं वो व्रजाव शरणं च वः॥ 16-10-10(97505)
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः।
सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च।
न जातु विषमं चैव गमिष्यति कदाचन॥ 16-10-11(97506)
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः॥ 16-10-12(97507)
`चतुर्णां लोकपालानां मध्ये विपरिवर्तते।'
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः॥ 16-10-13(97508)
`एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः।'
युधिष्ठिरो महातेजा भवतः पालयिष्यति॥ 16-10-14(97509)
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया॥ 16-10-15(97510)
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ॥ 16-10-16(97511)
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः॥ 16-10-17(97512)
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः॥ 16-10-18(97513)
इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षांचक्रुः परस्परम्॥ ॥ 16-10-19(97514)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि दशमोऽध्यायः॥ 10 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-10-7 न कर्तव्यमनुज्ञातुमिहार्हथेति क.ट.थ.पाठः॥ 7-10-16 अन्येन भृत्येन। अनुज्ञातुं क्षन्तुम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|